top of page

प्रत्यङ्गिराकवचम् सर्वार्थसाधकम् (रुद्रयामलतन्त्रान्तर्गतम्) | Pratyangira kavacham sarvartha sadhakam

श्री प्रत्यङ्गिरा सर्वार्थसाधककवचम् 

देव्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रार्थपारग ।
देव्याः प्रत्यङ्गिरायाश्च कवचं यत्प्रकाशितम् ॥ १॥

सर्वार्थसाधनं नाम कथयस्व मयि प्रभो ।
भैरव उवाच ।
श‍ृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ॥ २॥

सर्वार्थसाधनं नाम त्रैलोक्ये चाऽतिदुर्लभम् ।
सर्वसिद्धिमयं देवि सर्वैश्वर्यप्रदायकम् ॥ ३॥

पठनाच्छ्र्वणान्मर्त्यस्त्रैलोक्यैश्वर्यभाग्भवेत् ।
सर्वार्थसाधकस्याऽस्य कवचस्य ऋषिः शिवः ॥ ४॥

छन्दो विराट् पराशक्तिर्जगद्धात्री च देवता ।
धर्माऽर्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ५॥

विनियोगः-
ॐ श्रीसर्वार्थसाधककवचस्य…
bottom of page